लूकः 5:12-13

लूकः 5:12-13 SAN-DN

ततः परं यीशौ कस्मिंश्चित् पुरे तिष्ठति जन एकः सर्व्वाङ्गकुष्ठस्तं विलोक्य तस्य समीपे न्युब्जः पतित्वा सविनयं वक्तुमारेभे, हे प्रभो यदि भवानिच्छति तर्हि मां परिष्कर्त्तुं शक्नोति। तदानीं स पाणिं प्रसार्य्य तदङ्गं स्पृशन् बभाषे त्वं परिष्क्रियस्वेति ममेच्छास्ति ततस्तत्क्षणं स कुष्ठात् मुक्तः।