मत्ति भूमिका
भूमिका
प्रस्तुतपुस्तकं कापि साधारणजीवनी नास्ति, अपितु विश्वासस्य आधारे एकः शुभः समाचारः (सुसमाचारः, इंजीलः) अस्ति। “शुभसंदेशः” अयं विश्वासः वर्तते यत् प्रभुः येशुः एव मानवजात्याः मुक्तिदाता वर्तते। तस्य एव विषये परमेश्वरेण प्राचीनकाले कथितम् यत् सः ईदृशं जनं प्रेषयिष्यति यस्य माध्यमेन सः स्वसमस्तप्रतिज्ञां पूरयिष्यति, यां सः स्वजनेभ्यः इस्राएलिभ्यः कृतवान् आसीत्। प्रभुः येशुः जन्मना यहूदी आसीत्। तस्य जन्म प्राचीने इस्राएलदेशे अभवत्। तस्य सम्पूर्णम् जीवनम् यहूदीसमाजे व्यतीतम् आसीत्। तथापि परमेश्वरस्य अयं शुभः संदेशः न केवलम् समस्तयहूदीजात्यै अस्ति, अपितु समस्तमानवजात्यै वर्तते।
इदानीं स्पष्टम् अस्ति यत् सर्वे जनाः परमेश्वरस्य सन्ति। इस्राएलिनः जनाः तस्मिन् अर्थे परमेश्वरस्य “स्वजनाः” मन्यन्ते यत् प्राचीनधर्मग्रन्थानाम् अनुसारं परमेश्वरः स्वकीयम् अनन्तं असीमं च प्रेम प्रकटीकर्तुम् तैः सह “विधानम्” (व्यवस्थानम् अथवा वाचां) स्थापितवान्। यस्य जनस्य माध्यमेन प्रेम-विधानस्य प्रतिज्ञाः सर्वेभ्यः जनेभ्यः पूर्णाः भवन्ति, तं “मसीहः” अर्थात् अभिषिक्तः जनः वदन्ति। प्रभोः येशोः शिष्याः इमां साक्षीम् अददुः यत् प्रभुः येशुः एव सः “मसीहः” अस्ति, यस्य जीवनदानेन परमेश्वरस्य विधानस्य नूतनः पूर्णः अर्थः च प्रकटितः अभवत्। अतएव, येषु ग्रन्थेषु शिष्याणाम् साक्ष्यः लिपिबद्धाः अभवन् ते “नूतनविधानस्य” ग्रन्थाः कथ्यन्ते। तेषां ग्रन्थानाम् क्रमे चत्वारः आरम्भिकाः ग्रन्थाः “चत्वारः शुभाः समाचाराः” सन्ति।
प्रस्तुतं पुस्तकं, “साधोः मत्तिनः अनुसारं शुभः समाचारः” सुनियोजितप्रकारेण, क्रमबद्धरीत्या अवहितमनसा व्यवस्थितः कृतः अस्ति। पुस्तकस्य आरंभः प्रभोः येशोः जन्मना भवति। तस्य पश्चात् प्रभोः येशोः जलसंस्कारस्य (स्नानस्य), तिसृणाम् परीक्षाणाम् च वर्णनम् कृतम् अस्ति। तत्पश्चात् येशुना गलीलप्रदेशे कृताः धर्मसेवायाः विस्तरेण उल्लेखः वर्तते। प्रभुः येशुः गलीलस्य प्रदेशस्य जनसमुदायं प्रवचनं अश्रावयत्, शिक्षाम् दत्तवान्, तेन अस्वस्थाः जनाः रुग्णजनाः च स्वस्थाः कृताः। पुस्तकस्य अंतिमेषु अध्यायेषु लेखकः लिखति यत् प्रभुः येशुः यहूदाप्रदेशस्य येरुसलेमनगरस्य यात्रां करोति। एतेषु अन्तिमेषु अध्यायेषु प्रभोः येशोः जीवनस्य अन्तिमसप्तदिनेषु घटितानां घटनानाम् उल्लेखः अस्ति; प्रभवे येशवे मृत्युदंडः दीयते; सः क्रूसकाष्ठे (सलीबे) आरोपितः, क्रूसे तस्य मृत्युश्च भवति। सः शवागारे स्थाप्यते, तृतीये दिवसे च पुनः जीवितो भवति।
साधोः मत्तिनः अनुसारं शुभसमाचारे प्रभुः येशुः महागुरोः रूपे चित्रितः अस्ति। गुरोः येशोः पार्श्वे परमेश्वरस्य व्यवस्थायाः व्याख्यां कर्तुम् अधिकारः वर्तते। सः स्वर्गराज्यस्य, अर्थात् परमेश्वरस्य प्रेमपूर्णस्य शासनस्य अधिकारस्य शिक्षां ददाति। तस्य अधिकांशाः शिक्षाः विषयानुसारं पत्र्चसंग्रहेषु एकत्रीकृताः सन्तिः (1) पर्वतीयप्रवचनम्, यस्मिन् मनुष्यस्य चरित्रम्, आचारः-व्यवहारः, कर्तव्यकर्म, विशेषाधिकारः स्वर्गराज्यस्य नागरिकाणां नियतेश्च उल्लेखः वर्तते (अध्याय 5-7)। (2) द्वादशप्रेरितेभ्यः तेषां प्रेषणस्य (मिशनस्य) शिक्षा (अध्याय 10)। (3) स्वर्गराज्यस्य दृष्टान्तः (अध्याय 13)। (4) मसीहस्य अनुयायित्वं, शिष्यत्वस्य अर्थः (अध्याय 18)। (5) युगांतस्य, भाविस्वर्गराज्यस्य विषये शिक्षा च (अध्याय 24-25)।
मारकुसेन (मरकुसेन वा) रचितेन शुभसमाचारेण सह अस्य शुभसमाचारस्य तुलना चेत् क्रियते, तदा मत्तिनः अनुसारं शुभसमाचारे वर्णितः घटनाक्रमः समानः प्रतीयते। तथापि साधोः मत्तिनः रचना अधिका विस्तृता अस्ति, यतः सः तृतीयस्य शुभसमाचारस्य लेखकस्य लूकसस्य सदृशः स्वरचनायां प्रभोः येशोः गुरुवचनानाम् विपुलस्रोतात् अधिकाः सामग्रीः सम्मिलितवान्।
विषय-वस्तुनः रूपरेखा
प्रभोः येशुमसीहस्य वंशावली जन्म च 1:1-2:23
योहनजलसंस्कारदातुः धर्मसेवा 3:1-12
प्रभोः येशोः जलसंस्कारः परीक्षा च 3:13-4:11
प्रभोः येशोः गलीलप्रदेशे जनतायाः सेवा 4:12-18:35
गलीलप्रदेशात् यहूदाप्रदेशस्य येरुसलेमनगरं प्रति प्रस्थानम् 19:1-20:34
येरुसलेमनगरे, तस्य समीपवर्तिषु ग्रामेषु च प्रभोः येशोः जीवनस्य
अन्तिमानि सप्तदिनानि 21:1-27:66
प्रभोः येशोः पुनरुत्थानं, शिष्येभ्यः दर्शनम् च 28:1-20
Nke Ahọpụtara Ugbu A:
मत्ति भूमिका: SANSKBSI
Mee ka ọ bụrụ isi
Kesaa
Mapịa
Ịchọrọ ka echekwaara gị ihe ndị gasị ị mere ka ha pụta ìhè ná ngwaọrụ gị niile? Debanye aha gị ma ọ bụ mee mbanye
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: