Akara Njirimara YouVersion
Akara Eji Eme Ọchịchọ

यूहन्‍नः 4

4
समरीस्‍त्रिया सह संवादः
1फरीसिम्‍यः सूचना प्राप्‍ता यत्‌ येशुना योहनतः अधिकाः शिष्‍याः क्रियन्‍ते, जलसंस्‍कारः अपि दीयते - 2यद्‌यपि जलसंस्‍कारं स्‍वयं येशुः न दत्ते, किन्‍तु तस्‍य शिष्‍याः ददति। इमां सूचनां प्राप्‍त्‍वा, 3तदा सः यहूदा प्रदेशं परित्‍यज्‍य गलीलप्रदेशम्‌ अगच्‍छत्‌। 4सः सामरी प्रदेशं प्रविश्‍य गमनमासीत्‌। 5ततः सामरीप्रदेशे स्‍थितम्‌ सुखारनामकं नगरं प्राप्‍तवान्‌। एतत्‌ नगरं तस्‍य भूमेः समीपतः आसीत्‌, यत्‌ याकुबेन यूसुफाय अर्पितम्‌। 6तत्र याकूबस्‍य कूपः वर्तते। येशुः यात्रां कुर्वन्‌ क्‍लान्‍तः आसीत्‌। अतः तस्‍य कूपस्‍य समीपे उपविशत्‌। तदानीं मध्‍याह्‌नसमयः आसीत्‌।
7काचित्‌ सामरीस्‍त्री जलम्‌ उद्‌धर्तुम्‌ आगता। येशुः ताम्‌ अब्रवीत्‌, “मां पयः पायय,” 8यतः तस्‍य शिष्‍याः तदा खाद्‌यक्रयार्थम्‌ नगरं गताः आसन्‌। 9सामरिभिः सह यहूदिनां कोऽपि सम्‍बन्‍धः नः आसीत्‌। अतः सामरीनारी येशुम्‌ एतद्‌ अभाषत, “सामरीनारयाः त्‍वं यहूदी अपि जलं पातुम्‌ इच्‍छसि? 10येशुः तां प्रत्‍युवाच, ”यदि त्‍वम्‌ परमेश्‍वरस्‍य दानम्‌ अज्ञास्‍यथाः तथा “मह्‌यम्‌ जलं देहि इति” यः नरः याचते तस्‍य तत्त्वम्‌ अज्ञास्‍यथाः तदा त्‍वं तम्‌ एव अयाचिष्‍यथाः। सः च तुभ्‍यम्‌ संजीवनं जलं च अवश्‍यम्‌ अदास्‍यत।” 11नारी तमाह, “महोदय! जलं बहिः आनेतुं साधनं तव पार्श्‍वे न अस्‍ति। कूपः च अयं गभीरः अस्‍ति; पुनः संजीवनं जलम्‌ कुतः भवते लपस्‍यते इति अहं न जानामि? 12किं भवान्‌ अस्‍मत्‍पितुः याकूबाद्‌ अपि महत्तरः वर्तते, येन अस्‍मभ्‍यम्‌ अयं कूपः प्रदत्तः? असौ स्‍वयं, तस्‍य पुत्राः, पश्‍वश्‍च अस्‍मात्‌ कूपात्‌ जलम्‌ अपिबन्‌। 13येशुः ताम्‌ अवदत्‌, “यः इदं जलम्‌ पिबति, सः पिपासुः भविष्‍यति। किन्‍तु यत्‌ जलं मया दीयते, यो नरः पास्‍यति, सः पिपासुः कदापि न भविष्‍यति। 14अहं तस्‍मै यत्‌ जलं दास्‍यामि तत्‌ तस्‍मिन्‌ निर्झरः सम्‍भविष्‍यति, यः अनन्‍तजीवनम्‌ यावत्‌ निर्गमिष्‍यति।” 15तदा सा स्‍त्री प्रत्‍यवादीत्‌, “महेादय! मह्‌यम्‌ तद्‌ तोयं ददातु, यत्‌ पीत्‍वा मां पुनः पिपासा न एव बाधेत, जलं निष्‍कृषेतुम्‌ च मां पुनः आगमनं न भवेत्‌।”
16येशुः ताम्‌ उवाच, “गत्‍वा निजपतिम्‌ आहूय अत्र आगच्‍छ।” 17सा योषित्‌ येशुं प्रत्‍युवाच, “मम पतिः नास्‍ति।” येशु ताम्‌ अब्रवीत्‌, “त्‍वं सत्‍यं ब्रूषे नास्‍ति तव पतिः। 18तव पत्र्च पतयः पूर्वम्‌ आसन्‌। येन सह अधुना त्‍वं वर्तसे, सः तव पतिः नास्‍ति, इदं त्‍वं सत्‍यम्‌ अवदः।
19नारी येशुम्‌ अवदत्‌, “महोदय! त्‍वं नबी इति मया ज्ञातम्‌।” 20अस्‍माकं पूर्वजाः अस्‍मिन्‌ पर्वते उपासनाम्‌ अकुर्वन्‌, परन्‍तु यूयं भाषध्‍वे येरुसलेमे उपासना कर्तव्‍या।” 21येशु ताम्‌ उवाच, ”नारि! अहं त्‍वां विश्‍वासयामि, यत्‌ असौ समयः शीघ्रम्‌ आयाति, यदा यूयं न येरुसलेमे, न च अस्‍मिन्‌ गिरौ अपि पितुः आराधनां विधास्‍यथ। 22यूयं यं आराधयथ तं न जानीथ। वयं तु यम्‌ आराधयामः, तं जानीमः, यतः मुक्‍तिः यहूदिभ्‍यः आरभते। 23परन्‍तु सः समयः आयाति, आगतः वा, यदा सत्‍याः आराधकाः, सत्‍येन पितुः आराधनां सम्‍यक्‌ करिष्‍यन्‍ति। पिता तादृशान्‌ एव उपासकान्‌ अभिकाड्‌.क्षति। 24परमेश्‍वरः आत्‍मा विद्‌यते, अतः तस्‍य उपासकैः आत्‍मना सत्‍येन चैव उपासना कर्तव्‍या।” 25नारी तम्‌ उवाच, “अहं जानामि यत्‌ मसीहः, यः परमेश्‍वरस्‍य अभिषिक्‍तः जनः निगद्‌यते, आगन्‍ता अस्‍ति। यदा सः आगमिष्‍यति, सर्वम्‌ कथयिष्‍यति।” 26येशु ताम्‌ अब्रवीत्‌, “अहं यः त्‍वां भाषमाणः स एव अहम्‌।”
27तस्‍मिन्‌ समये एव तस्‍य शिष्‍याः आगतवन्‍तः, तं नारया सह भाषमाणम्‌ विस्‍मयं परमं ययुः; तथापि केनचित्‌ न उक्‍तम्‌, भवतः अनया किम अस्‍ति, भवान्‌ कथं वा नारया साकं सम्‍भाषते इति? 28सा स्‍वं कलशं तत्रैव विहाय, नगरं गत्‍वा जनान्‌ अवदत्‌, 29“यूयं मया सह गत्‍वा एतादृशं नरम्‌ पश्‍यत, येन मया यत्‌ कृतम्‌, तत्‌ सर्वम्‌ उक्‍तम्‌। किंस्‍वित्‌ सः एव मसीहः अस्‍ति?” 30एतत्‌ आकर्ण्‍य सकलाजनाः नगराद्‌ निर्गत्‍य येशोः समीपम्‌ आगच्‍छन्‌।
31तस्‍मिन्‌ एव अन्‍तरे शिष्‍याः सानुरोधं तम्‌ अब्रुवन्‌, “गुरो! कित्र्चिद्‌ भवान्‌ भोजनं गृह्‌णीयात्‌।” 32येशुः तान्‌ अब्रवीत्‌ - भोजनार्थम्‌ ईदृशम्‌ भक्ष्‍यम्‌ मे पार्श्‍वे वर्तते, यस्‍य विषये यूयं न बुध्‍यध्‍वे। 33शिष्‍याः मिथः ऊचिरे, “किम्‌ केनचित्‌ भोजनार्थम्‌ किमपि भक्ष्‍यम्‌ अस्‍य पार्श्‍वे आनीतम्‌?” 34येशुः तान्‌ अब्रवीत्‌, “यः मां प्रेषितवान्‌, तदीय इच्‍छायाः अनुवर्त्तनम्‌, तदीयकर्मकरणम्‌, एतत्‌ मम भोजनम्‌ अस्‍ति।”
35युष्‍माभिः सर्वैः किं न निगद्‌यते, यत्‌ शस्‍यकर्तनस्‍य चतुमासाः अवशिष्‍टाः? परन्‍तु अहं युष्‍मान्‌ ब्रवीमि - “दृष्‍टिम्‌ ऊर्ध्‍वं विधाय, पश्‍यत क्षेत्राणि, तानि कर्तनार्हाणि सन्‍ति। 36शस्‍यानां कर्तनकर्ता स्‍ववेतनं लभते, असौ अनन्‍तजीवनाय फलानि सत्र्चिनोति, येन वप्‍ता छेत्ता च द्वयम्‌ एकत्र मोदताम्‌। 37यतः अत्र एषा लोकोक्‍तिः सर्वथा सत्‍या वर्तते “एकः वपति, अन्‍यः लुनाति।” 38तस्‍मिन्‌ क्षेत्रे मया यूयं शस्‍यानि कर्तितुम्‌ प्रेषिताः, यत्र युष्‍माभिः परिश्रमः न कृतः, परन्‍तु तेषां श्रमस्‍य फलं युष्‍मभ्‍यम्‌ लभते। 39इयं नारी, यद्‌ मया कृतम्‌, तत्‌ सर्वम्‌ कथितम्‌। अतः तस्‍य नगरस्‍य बहवः सामरिणः येशौ प्रत्‍ययं कृतवन्‍तः। 40अतएव येशुः तेषां समीपम्‌ उपस्‍थिताः, तदा ते अप्रार्थयन्‌, “प्रभो! अस्‍माकं गृहे तिष्‍ठतु।” येशुः तत्र दिनद्‌वयम्‌ अतिष्‍ठत्‌। 41अन्‍ये बहवः तस्‍य उपदेशं श्रुत्‍वा विश्‍वासम्‌ कृत्‍वा तां नारीम्‌ अब्रूवन्‌, 42“वयं तव उक्‍तया विश्‍वासं न कुर्महे, अस्‍माभिः स्‍वयं सः श्रुतः, इदानीं वयं जानीमः यत्‌ एषः एव संसारस्‍य मुक्‍तिदाता वर्तते।
पदाधिकारिणः पुत्रः
43दिनद्वये गते येशुः तस्‍मात्‌ नगरात्‌ प्रस्‍थाय, गलीलप्रदेशम्‌ आगतवान्‌। 44येशुः स्‍वयम्‌ उवाच यत्‌ स्‍वदेशे नबी न हि समादृतः भवति। 45यदा सः गलिलप्रदेशं प्राप्‍तवान्‌, तत्रत्‍याः सकलाः जनाः तं सादरं पर्यपूजयन्‌, यतः असौ येरुसलेमे उत्‍सवस्‍य दिवसेषु यत्‌ चक्रे, तत्‌ अखिलं गलीलप्रदेशस्‍य निवासिनः अपश्‍यन्‌।
46ततः येशुः पुनः गलीलप्रदेशस्‍य कानानगरम्‌ आगतवान्‌ यत्र सः तोयं द्राक्षारसे परिवर्तितवान्‌। तत्र राज्‍यस्‍य एक पदाधिकारी आसीत्‌, यस्‍य पुत्रः कफरनहूमनगरे रुग्‍णः आसीत्‌। 47यदा सः पदाधिकारी अशृणोत्‌ येशुः यहूदाप्रदेशात्‌ गलीलप्रदेशम्‌ आगतः अस्‍ति, तदा सः तस्‍य अन्‍तिकम्‌ गत्‍वा न्‍यवेदयत्‌ - “गुरो ! मया सह मम गृहं गत्‍वा मम मृतकल्‍पं पुत्रं निरामयं कुर्यात्‌।” 48येशुः तम्‌ उवाच, “यूयं मया कृतम्‌ कित्र्चत्‌ चमत्‍कारयुक्तं कार्यं दृष्‍ट्‌वा एव विश्‍वसिष्‍यथ।” 49ततः पदाधिकारी तं प्राह - “प्रभो! मम पुत्रे कृपां विधेहि, नो चेद्‌ बालः मरिष्‍यति।” 50येशु तम्‌ अब्रवीत्‌ “गच्‍छ, तव पुत्रः स्‍वस्‍थः अभवत्‌।” येशोः वचसि विश्‍वासं कृत्‍वा असौ प्रस्‍थानम्‌ अकरोत्‌। 51सः मार्गे एव आसीत्‌, दासाः तं न्‍यवेदयन्‌ “भवतः पुत्रः स्‍वस्‍थः जातः।” 52सः दासान्‌ पृष्‍टवान्‌, कस्‍मिन्‌ काले मम पुत्रः स्‍वस्‍थः जातः? ते उक्‍तवन्‍तः, ह्‌यः दिनस्‍य एकवादने ज्‍वरः तं मुक्‍तवान्‌। 53ततः तेन अवबुद्‌धम्‌, तस्‍मिन्‌ एव समये येशुः तं कथितवान्‌ आसीत्‌, “भवतः पुत्रः निरामयः जातः।” ततः सपरिवारेन सह येशौ विश्‍वासं कृतवान्‌।
54एषः येशोः द्वितीयः चमत्‍कारः आसीत्‌, यं यहूदाप्रदेशात्‌ आगत्‍य गलीलप्रदेशे प्रदर्शितवान्‌।

Nke Ahọpụtara Ugbu A:

यूहन्‍नः 4: SANSKBSI

Mee ka ọ bụrụ isi

Kesaa

Mapịa

None

Ịchọrọ ka echekwaara gị ihe ndị gasị ị mere ka ha pụta ìhè ná ngwaọrụ gị niile? Debanye aha gị ma ọ bụ mee mbanye