Akara Njirimara YouVersion
Akara Eji Eme Ọchịchọ

मत्ति 1

1
प्रभोः येशुमसीहस्‍य वंशावली
1अब्राहमस्‍य वंशजस्‍य, दाऊदस्‍य वंशजस्‍य येशोः मसीहस्‍य वंशावली - 2अब्राहमात्‌ इसहाकः उत्‍पन्‍नः बभूव। इसहाकात्‌ याकूबः उत्‍पन्‍नः बभूव। याकूबात्‌ यूदसः तस्‍य भ्रातरश्‍च उत्‍पन्‍नाः बभूवुः। 3यूदसथामरयोः पेरेसजेरहौ जातौ। पेरेसात्‌ हेस्रोनः जातः। हेस्रोनेन अरामः उत्‍पन्‍नः बभूव। 4अरामात्‌ अम्‍मीनादाबः जातः। अम्‍मीनादाबात्‌ नहशोनः उत्‍पन्‍नः अभवत्‌। नहशोनेन सलमोनः जातः। 5सलमोनेन राहाबया बोअजः उत्‍पन्‍नः अभवत्‌, बोअजरुताभ्‍याम्‌ ओबेदः उत्‍पन्‍नः बभूव। ओबेदात्‌ यिशयस्‍य उत्‍पत्तिः अभवत्‌। 6यिशयात्‌ नृपदाऊदः उत्‍पन्‍नः अभवत्‌।
ऊरियाहस्‍य विधवास्‍त्रिया दाऊदेन सुलेमानः उत्‍पन्‍नः अभवत्‌। 7सुलेमानात्‌ रहबआभः जातः। रहबआभात्‌ अबिय्‍याहः, अबिय्‍याहात्‌ आसाफः, 8आसाफात्‌ यहोशाफाटः, यहोशाफाटात्‌ योरामस्‍य उत्‍पत्तिः अभवत्‌। योरामात्‌ अजर्याहः, 9अजर्याहात्‌ योतामः, योतामात्‌ आहाजः, आहाजात्‌ हिजकियाहः उत्‍पन्‍नः बभूव। 10हिजकियाहात्‌ मनश्‍शे जातः, मनश्‍शे इत्‍यनेन आमोसः, आमोसात्‌ योशियाहः उत्‍पन्‍नः अभवत्‌। 11यदा इस्राएलिनः बेबीलोने नगरे निष्‍कासिताः, तदा योशियाहात्‌ यकोन्‍याहः तस्‍य भ्रातरश्‍चः उत्‍पन्‍नाः बभूवुः। 12बेबीलोननगरे निष्‍कासनस्‍य पश्‍चात्‌ यकोन्‍याहात्‌ शालतिएलः उत्‍पन्‍नः अभवत्‌। शालतिएलात्‌ जरुब्‍बाबेलः जातः। 13जरुब्‍बाबेलात्‌ अबीहूदः, अबीहूदात्‌ एलयाकीभः, एलयाकीमात्‌ अजोरः, 14अजोरात्‌ सदोकः, सदोकात्‌ अखीमः, अखीमात्‌ एलीहूदः क्रमशः उत्‍पन्‍नाः बभूवुः। 15एलीहूदात्‌ एलआजरः जातः। एलआजरात्‌ मत्तानः उत्‍पन्‍नः अभवत्‌। मत्तानस्‍य पुत्रः याकूबः आसीत्‌। 16याकूबस्‍य पुत्रः युसुफः आसीत्‌, यः मरियायाः (मेरयाः) पतिः आसीत्‌, तया येशुः उत्‍पन्‍नः, यः मसीहः कथ्‍यते।
17इत्‍थम्‌ अब्राहमात्‌ दाऊदं यावत्‌ चतुर्दशपुरुषपरम्‍पराः सन्‍ति, दाऊदात्‌ बेबीलोन- निष्‍कासनं यावत्‌ चतुर्दशवंशश्रेण्‍यः, बेबीलोन निर्वासनात्‌ मसीहं यावत्‌ चतुर्दशपुरुषपरम्‍पराश्‍च सन्‍ति।
प्रभोः येशोः जन्‍म
(लूका 2:1-7)
18येशोः मसीहस्‍य जन्‍म इत्‍थम्‌ अभवत्‌। तस्‍य मातुः मेरयाः वाग्‍दानम्‌ यूसुफेन सह अभवत्‌, परन्‍तु ईदृशम्‌ अभवत्‌ यत्‌ तयोः सहवासात्‌ तु प्राक्‌ एव मेरी पुण्‍यात्‍मनः प्रभावेण गर्भवती अभवत्‌। 19तस्‍याः पतिः यूसुफः गुप्‍तरूपे तस्‍याः त्‍यागम्‌ अचिन्‍तयत्‌, यतः सः धर्मी आसीत्‌, अपमानं तु पत्‍न्‍याः न इच्‍छति स्‍म, 20सः अस्‍मिन्‌ विषये विचारयन्‌ एव आसीत्‌, तेन स्‍वप्‍ने इदं कथयन्‌ प्रभोः दूतः अवलोकितः, यूसुफ! दाऊदस्‍य सन्‍तान! स्‍वपत्‍नीं मेरीं स्‍वपार्श्‍वे आनयने मा बिभीहि, यतः तस्‍याः यः गर्भः विद्यते सः पवित्रात्‍मना विद्‌यते। 21सा पुत्रं जनिष्‍यते भवान्‌ तस्‍य नाम येशुः दास्‍यति; यतः सः स्‍वजनान्‌ तेषां पापेभ्‍यः मोक्ष्‍यति।
22इदं सर्वम्‌ अभवत्‌ यत्‌ भविष्‍यवक्‍तुः मुखात्‌ प्रभुना यत्‌ कथितम्‌ तत्‌ पूर्णतां व्रजेत्‌। 23पश्‍य, गर्भम्‌ समासाद्‌य काचिदेका कुमारिका, पूर्णे गर्भे तु सा बाला सुपुत्रं प्रसविष्‍यते। नाम्‍ना स एम्‍मानुएलः इति ख्‍यातो भविष्‍यति। अस्‍य नाम्‍नोऽस्‍ति तात्‍पर्यम्‌ यदस्‍माभिः सहेश्‍वरः।
24स्‍वप्‍नस्‍यान्‍ते विबुद्धोऽसौ महात्‍मा यूसुफः प्रभोर्दूतस्‍य वचनात्‌ पत्‍नीं स्‍वं गृहमानयत्‌। 25यावत्‌ सा न सुषुवे सुतं तावत्‌ तया सह यूसुफस्‍य संसर्गः कदाचित्‌ न समजायत्‌। पूर्णे गर्भे सुनिर्मलः असौ बालकः जातः, दूतवाक्‍येन यूसुफः शिशोः नाम येशुः अददात्‌।

Nke Ahọpụtara Ugbu A:

मत्ति 1: SANSKBSI

Mee ka ọ bụrụ isi

Kesaa

Mapịa

None

Ịchọrọ ka echekwaara gị ihe ndị gasị ị mere ka ha pụta ìhè ná ngwaọrụ gị niile? Debanye aha gị ma ọ bụ mee mbanye